पंचांग राशिफल भक्ति का मार्ग त्योहार
भजन

श्रीवल्लभाचार्य द्वारा रचित | अधरम मधुरं लिरिक्स

1 मिनट पढ़ें
श्रीवल्लभाचार्य द्वारा रचित | अधरम मधुरं लिरिक्स
अधरं मधुरं वदनं मधुरं
नयनं मधुरं हसितं मधुरम्।
हृदयं मधुरं गमनं मधुरं
मधुराधिपतेरखिलं मधुरम्॥

वचनं मधुरं चरितं मधुरं
वसनं मधुरं वलितं मधुरम्।
चलितं मधुरं भ्रमितं मधुरं
मधुराधिपतेरखिलं मधुरम्॥

वेणुर्मधुरो रेणुर्मधुरः
पाणिर्मधुरः पादौ मधुरौ।
नृत्यं मधुरं सख्यं मधुरं
मधुराधिपतेरखिलं मधुरम्॥

गीतं मधुरं पीतं मधुरं
भुक्तं मधुरं सुप्तं मधुरम्।
रूपं मधुरं तिलकं मधुरं
मधुराधिपतेरखिलं मधुरम्॥

करणं मधुरं तरणं मधुरं
हरणं मधुरं रमणं मधुरम्।
वमितं मधुरं शमितं मधुरं
मधुराधिपतेरखिलं मधुरम्॥

गुंजा मधुरा माला मधुरा
यमुना मधुरा वीचीः मधुराः।
सलिलं मधुरं कमलं मधुरं
मधुराधिपतेरखिलं मधुरम्॥

गोपि मधुरा लीला मधुरा
युक्तं मधुरं मुक्तं मधुरम्।
दृश्टं मधुरं शिष्टं मधुरं
मधुराधिपतेरखिलं मधुरम्॥

गोपो मधुरो गाओ मधुराः
यष्टिर्मधुरा सृष्टिर्मधुरा।
दलितं मधुरं फलितं मधुरं
मधुराधिपतेरखिलं मधुरम्॥

अधरं मधुरं वदनं मधुरं
नयनं मधुरं हसितं मधुरम्।
हृदयं मधुरं गमनं मधुरं
मधुराधिपतेरखिलं मधुरम्॥