पंचांग राशिफल भक्ति का मार्ग त्योहार
मंत्र

श्री तुलजा भवानी स्तोत्र-नमोस्तु ते महादेवि

1 मिनट पढ़ें
नमोस्तु ते महादेवि शिवे कल्याणि शाम्भवि ।

प्रसीद वेदविनुते जगदम्ब नमोस्तुते ॥ १ ॥

जगतामादिभूता त्वं जगत्त्वं जगदाश्रया ।
एकाऽप्यनेकरूपासि जगदम्ब नमोस्तुते ॥ २ ॥

सृष्टिस्थितिविनाशानां हेतुभूते मुनिस्तुते ।
प्रसीद देवविनुते जगदम्ब नमोस्तुते ॥ ३ ॥

सर्वेश्वरि नमस्तुभ्यं सर्वसौभाग्यदायिनि ।
सर्वशक्तियुतेऽनन्ते जगदम्ब नमोस्तुते ॥ ४ ॥

विविधारिष्टशमनि त्रिविधोत्पातनाशिनि ।
प्रसीद देवि ललिते जगदम्ब नमोस्तुते ॥ ५ ॥

प्रसीद करुणासिन्धो त्वत्तः कारुणिका परा ।
यतो नास्ति महादेवि जगदम्ब नमोस्तुते ॥ ६ ॥

शत्रून् जहि जयं देहि सर्वान्कामांश्च देहि मे ।
भयं नाशय रोगांश्च जगदम्ब नमोस्तुते ॥ ७ ॥

जगदम्ब नमोऽस्तु ते हिते जय शम्भोर्दयिते महामते ।
कुलदेवि नमोऽस्तु ते सदा हृदि मे तिष्ठ यतोऽसि सर्वदा ॥ ८ ॥

तुलजापुरवासिन्या देव्याः स्तोत्रमिदं परम् ।
यः पठेत्प्रयतो भक्त्या सर्वान्कामान्स आप्नुयात् ॥ ९ ॥

इति श्रीमत्परमहंस परिव्राजकाचार्य श्रीवासुदेवानन्दसरस्वती
 विरचितं श्री तुलजापुरवासिन्या देव्याः स्तोत्रम् सम्पूर्णम् ।