चाम्पॆयगौरार्धशरीरकायै कर्पूरगौरार्धशरीरकाय । धम्मिल्लकायै च जटाधरायनमः शिवायै च नमः शिवाय ॥ 1 ॥ कस्तूरिकाकुङ्कुमचर्चितायै चितारजःपुञ्ज विचर्चिताय । कृतस्मरायै विकृतस्मराय नमः शिवायै च नमः शिवाय ॥ 2 ॥ झणत्क्वणत्कङ्कणनूपुरायै पादाब्जराजत्फणिनूपुराय । हॆमाङ्गदायै भुजगाङ्गदाय नमः शिवायै च नमः शिवाय ॥ 3 ॥ विशालनीलॊत्पललॊचनायैविकासिपङ्कॆरुहलॊचनाय । समॆक्षणायै विषमॆक्षणाय नमः शिवायै च नमः शिवाय ॥ 4 ॥ मन्दारमालाकलितालकायैकपालमालाङ्कितकन्धराय । दिव्याम्बरायै च दिगम्बराय नमः शिवायै च नमः शिवाय ॥ 5 ॥ अम्भॊधरश्यामलकुन्तलायै तटित्प्रभाताम्रजटाधराय । निरीश्वरायै निखिलॆश्वराय नमः शिवायै च नमः शिवाय ॥ 6 ॥ प्रपञ्चसृष्ट्युन्मुखलास्यकायै समस्तसंहारकताण्डवाय । जगज्जनन्यै जगदॆकपित्रॆनमः शिवायै च नमः शिवाय ॥ 7 ॥ प्रदीप्तरत्नॊज्ज्वलकुण्डलायैस्फुरन्महापन्नगभूषणाय । शिवान्वितायै च शिवान्वितायनमः शिवायै च नमः शिवाय ॥ 8 ॥ ऎतत्पठॆदष्टकमिष्टदं यॊभक्त्या स मान्यॊ भुवि दीर्घजीवी । प्राप्नॊति सौभाग्यमनन्तकालंभूयात्सदा तस्य समस्तसिद्धिः ॥इत्ति श्री आदिशंकर भगवत्पदा विरचितम अर्धनारीश्वर स्तोत्रम सम्पूरणम् |
अर्धनारीश्वर स्तोत्र
पूर्ण अस्वीकरण और क्षेत्रीय नोटिस यहाँ देखें।