29 Jan 2026 Spiritual Guidance Trusted Information

अर्धनारीश्वर स्तोत्र

ardhanarishwar
चाम्पॆयगौरार्धशरीरकायै कर्पूरगौरार्धशरीरकाय । धम्मिल्लकायै च जटाधरायनमः शिवायै च नमः शिवाय ॥ 1 ॥ कस्तूरिकाकुङ्कुमचर्चितायै चितारजःपुञ्ज विचर्चिताय । कृतस्मरायै विकृतस्मराय नमः शिवायै च नमः शिवाय ॥ 2 ॥ झणत्क्वणत्कङ्कणनूपुरायै पादाब्जराजत्फणिनूपुराय । हॆमाङ्गदायै भुजगाङ्गदाय नमः शिवायै च नमः शिवाय ॥ 3 ॥ विशालनीलॊत्पललॊचनायैविकासिपङ्कॆरुहलॊचनाय । समॆक्षणायै विषमॆक्षणाय नमः शिवायै च नमः शिवाय ॥ 4 ॥ मन्दारमालाकलितालकायैकपालमालाङ्कितकन्धराय । दिव्याम्बरायै च दिगम्बराय नमः शिवायै च नमः शिवाय ॥ 5 ॥ अम्भॊधरश्यामलकुन्तलायै तटित्प्रभाताम्रजटाधराय । निरीश्वरायै निखिलॆश्वराय नमः शिवायै च नमः शिवाय ॥ 6 ॥ प्रपञ्चसृष्ट्युन्मुखलास्यकायै समस्तसंहारकताण्डवाय । जगज्जनन्यै जगदॆकपित्रॆनमः शिवायै च नमः शिवाय ॥ 7 ॥ प्रदीप्तरत्नॊज्ज्वलकुण्डलायैस्फुरन्महापन्नगभूषणाय । शिवान्वितायै च शिवान्वितायनमः शिवायै च नमः शिवाय ॥ 8 ॥ ऎतत्पठॆदष्टकमिष्टदं यॊभक्त्या स मान्यॊ भुवि दीर्घजीवी । प्राप्नॊति सौभाग्यमनन्तकालंभूयात्सदा तस्य समस्तसिद्धिः ॥
इत्ति श्री आदिशंकर भगवत्पदा विरचितम अर्धनारीश्वर स्तोत्रम सम्पूरणम् |
Disclaimer: The accuracy or reliability of any information/content/calculations contained in this article is not guaranteed. This information has been collected from various mediums/astrologers/almanac/sermons/beliefs/religious scriptures and presented to you. Our aim is only to provide information, its users should consider it as mere information. Additionally, the responsibility for any use remains that of the user himself.