ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम् | रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् || 1 || दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् | उपगम्याब्रवीद्राममगस्त्यो भगवान् ऋषिः || 2 || राम राम महाबाहो शृणु गुह्यं सनातनम् | येन सर्वानरीन्वत्स समरे विजयिष्यसि || 3 || आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम् | जयावहं जपेन्नित्यमक्षयं परमं शिवम् || 4 || सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम् | चिन्ताशोकप्रशमनमायुर्वर्धनमुत्तमम् || 5 || रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम् | पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् || 6 || सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः | एष देवासुरगणान्लोकान्पाति गभस्तिभिः || 7 || एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः | महेन्द्रो धनदः कालो यमः सोमो ह्यपां पतिः || 8 || पितरो वसवः साध्या अश्विनौ मरुतो मनुः | वायुर्वह्निः प्रजाप्राण ऋतुकर्ता प्रभाकरः || 9 || आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् | सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकरः || 10 || हरिदश्वः सहस्रार्चिः सप्तसप्तिर्मरीचिमान् | तिमिरोन्मथनः शम्भुस्त्वष्टा मार्ताण्ड अंशुमान् || 11 || हिरण्यगर्भः शिशिरस्तपनो भास्करो रविः | अग्निगर्भोऽदितेः पुत्रः शङ्खः शिशिरनाशनः || 12 || व्योमनाथस्तमोभेदी ऋग्यजुःसामपारगः | घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवङ्गमः || 13 || आतपी मण्डली मृत्युः पिङ्गलः सर्वतापनः | कविर्विश्वो महातेजा रक्तः सर्वभवोद्भवः || 14 || नक्षत्रग्रहताराणामधिपो विश्वभावनः | तेजसामपि तेजस्वी द्वादशात्मन् नमोऽस्तु ते || 15 || नमः पूर्वाय गिरये पश्चिमायाद्रये नमः | ज्योतिर्गणानां पतये दिनाधिपतये नमः || 16 || जयाय जयभद्राय हर्यश्वाय नमो नमः | नमो नमः सहस्रांशो आदित्याय नमो नमः || 17 || नम उग्राय वीराय सारङ्गाय नमो नमः | नमः पद्मप्रबोधाय मार्ताण्डाय नमो नमः || 18 || ब्रह्मेशानाच्युतेशाय सूर्यायादित्यवर्चसे | भास्वते सर्वभक्षाय रौद्राय वपुषे नमः || 19 || तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने | कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः || 20 || तप्तचामीकराभाय हरये विश्वकर्मणे | नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे || 21 || नाशयत्येष वै भूतं तदेव सृजति प्रभुः | पायत्येष तपत्येष वर्षत्येष गभस्तिभिः || 22 || एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः | एष चैवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम् || 23 || वेदाश्च क्रतवश्चैव क्रतूनां फलमेव च | यानि कृत्यानि लोकेषु सर्वेषु परमप्रभुः || 24 || एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च | कीर्तयन् पुरुषः कश्चिन्नावसीदति राघव || 25 || पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम् | एतत् त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि || 26 || अस्मिन्क्षणे महाबाहो रावणं त्वं वधिष्यसि | एवमुक्त्वा तदाऽगस्त्यो जगाम स यथागतम् || 27 || एतच्छ्रुत्वा महातेजा नष्टशोकः अभवत् तदा | धारयामास सुप्रीतो राघवः प्रयतात्मवान् || 28 || आदित्यं प्रेक्ष्य जप्त्वा तु परं हर्षमवाप्तवान् | त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् || 29 || रावणं प्रेक्ष्य हृष्टात्मा जयार्थे समुपागमत् | सर्वयत्नेन महता वधे तस्य धृतोऽभवत् || 30 || अथ रविरवदन्निरीक्ष्य रामम् | मुदितमना: परमं प्रहृष्यमाण: | निशिचरपतिसंक्षयं विदित्वा | सुरगणमध्यगतो वचस्त्वरेति || 31 ||
भगवान सूर्य | आदित्य हृदय स्तोत्र
पूर्ण अस्वीकरण और क्षेत्रीय नोटिस यहाँ देखें।